Back

Browse Krishna Yajurveda

DivisionName Kanda Prashna
View Key to Sequence Numbering View आर्षेयपाठः (Arsheya) to सारस्वतपाठः (Saraswata) Mapping Table
VedicTextSequenceNoSequenceNo (Arsheya)काण्डः (आर्षेयपाठः)विषयः (आर्षेयपाठः)
इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑स्स्थोपा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वती॒ पय॑स्वती प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑स्स्ते॒न ई॑शत॒ माऽघश॑सो रु॒द्रस्य॑ हे॒ति परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ।। [1]1.1.1.01.011.1.1.1प्राजापत्य-काण्डम्पौरोडाशिकम्
य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आव॑हन्ति क॒वय॑ पु॒रस्ताद्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सदे॑ दे॒वानाम्परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर््हि॒र्मा त्वा॒ऽन्वङ्मा ति॒र्यक्पर्व॑ ते राध्यासमाच्छे॒त्ता ते॒ मा रि॑ष॒न्देव॑बर््हिश्श॒तव॑ल््श॒व्विँ रो॑ह स॒हस्र॑वल््शाः [2]1.1.1.02.011.1.2.1प्राजापत्य-काण्डम्पौरोडाशिकम्
वि व॒य रु॑हेम पृथि॒व्यास्स॒म्पृच॑ पाहि सुस॒म्भृता त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नम्पू॒षा ते ग्र॒न्थिङ्ग्र॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पतेर्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि ।। [3]1.1.1.02.021.1.2.2प्राजापत्य-काण्डम्पौरोडाशिकम्
शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृह॑स्व॒ मा ह्वा॒र्वसू॑नाम्प॒वित्र॑मसि श॒तधा॑र॒व्वँसू॑नाम्प॒वि त्र॑मसि स॒हस्र॑धार हु॒तस्स्तो॒को हु॒तो द्र॒फ्सोऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒॒ सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॑र्मा॒ सम्पृ॑च्यध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्य र॑क्षस्व ।। [4]1.1.1.03.011.1.3.1प्राजापत्य-काण्डम्पौरोडाशिकम्
कर्म॑णे वान्दे॒वेभ्य॑श्शकेय॒व्वेँषा॑य त्वा॒ प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒न्धूर्व॒ तय्योँऽस्मान्धूर्व॑ति॒ तन्धूर्व॒ यव्वँ॒यन्धूर्वा॑म॒स्त्वन्दे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तम॒व्वँह्नि॑तम- न्देव॒हूत॑म॒मह्रु॑तमसि हवि॒र्धान॒न्दृह॑स्व॒ मा ह्वार्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा सव्विँ॑क्था॒ मा त्वा [5]1.1.1.04.011.1.4.1प्राजापत्य-काण्डम्पौरोडाशिकम्
हि॒॒सि॒ष॒मु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्याम॒ग्नये॒ जुष्ट॒न्निर्व॑पाम्य॒ग्नीषोमाभ्यामि॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒ह स्फा॒त्यै त्वा॒ नारात्यै॒ सुव॑र॒भि वि ख्ये॑षव्वैँश्वान॒रञ्ज्योति॒र्दृह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरु॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्यास्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्य र॑क्षस्व ।। [6]1.1.1.04.021.1.4.2प्राजापत्य-काण्डम्पौरोडाशिकम्
दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रेगु॒वोऽग्र॑ इ॒मय्यँ॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑तिन्धत्त यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्वृँत्र॒तूर्ये॒ प्रोक्षि॑तास्स्था॒ग्नये॑ वो॒ जुष्ट॒म्प्रोक्षाम्य॒ग्नीषोमाभ्या॒॒ शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा [7]1.1.1.05.011.1.5.1प्राजापत्य-काण्डम्पौरोडाशिकम्
पृ॒थि॒वी वेत्त्वधि॒षव॑णमसि वानस्प॒त्यम्प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वेत्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नन्दे॒ववी॑तये त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्यस्स इ॒दन्दे॒वेभ्यो॑ ह॒व्य सु॒शमि॑ शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒य सं॑घा॒तञ्जेष्म व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धव्वेँत्तु॒ परा॑पूत॒॒ रक्ष॒ परा॑पूता॒ अरा॑तयो॒ रक्ष॑साम्भा॒गो॑ऽसि वा॒युर्वो॒ विवि॑नक्तु दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑ गृह्णातु ।। [8]1.1.1.05.021.1.5.2प्राजापत्य-काण्डम्पौरोडाशिकम्
अव॑धूत॒॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वी वेत्तु दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वेत्तु धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वेत्तु धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वेत्तु दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्या॒मधि॑वपामि धा॒न्य॑मसि धिनु॒हि दे॒वान्प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धान्दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑ गृह्णातु ।। [9]1.1.1.06.011.1.6.1प्राजापत्य-काण्डम्पौरोडाशिकम्
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापाऽग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्याद॑ से॒धा दे॑व॒यज॑व्वँह॒ निर्द॑ग्ध॒॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयो ध्रु॒वम॑सि पृथि॒वीन्दृ॒॒हायु॑र्दृह प्र॒जान्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्य॒न्तरि॑क्षन्दृह प्रा॒णन्दृ॑हापा॒नन्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिव॑न्दृह॒ चक्षुः॑ [10]1.1.1.07.011.1.7.1प्राजापत्य-काण्डम्पौरोडाशिकम्
दृ॒॒ह॒ श्रोत्र॑न्दृह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑ऽसि॒ दिशो॑ दृह॒ योनि॑न्दृह प्र॒जान्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ चित॑स्स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्व॒य्याँनि॑ घ॒र्मे क॒पालान्युपचि॒न्वन्ति॑ वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ।। [11]1.1.1.07.021.1.7.2प्राजापत्य-काण्डम्पौरोडाशिकम्
सव्वँ॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ स रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्वम॒द्भ्य परि॒ प्रजा॑ता स्स्थ॒ सम॒द्भि पृ॑च्यध्व॒ञ्जन॑यत्यै त्वा॒ सय्यौँम्य॒ग्नये त्वा॒ऽग्नीषोमाभ्याम्म॒खस्य॒ शिरो॑ऽसि घ॒र्मो॑ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑ति प्रथता॒न्त्वच॑ङ्गृह्णीष्वा॒ऽन्तरि॑त॒॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तयो दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर््षि॑ष्ठे॒ अधि॒ नाके॒ऽग्निस्ते॑ त॒नुव॒म्माऽति॑ धा॒गग्ने॑ ह॒व्य र॑क्षस्व॒ सम्ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा द्वि॒ताय॒ स्वाहा त्रि॒ताय॒ स्वाहा ।। [12]1.1.1.08.011.1.8.1प्राजापत्य-काण्डम्पौरोडाशिकम्
आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णस्स॒हस्र॑भृष्टिश्श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा॒ पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूल॒म्मा हि॑सिष॒मप॑हतो॒ऽररु॑ पृथि॒व्यै व्र॒जङ्ग॑च्छ गो॒स्थान॒ व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररु॑ पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जम् [13]1.1.1.09.011.1.9.1प्राजापत्य-काण्डम्पौरोडाशिकम्
ग॒च्छ॒ गो॒स्थान॒व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररु॑ पृथि॒व्या अदे॑वयजनो व्र॒जङ्ग॑च्छ गो॒स्थान॒व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा [14]1.1.1.09.021.1.9.2प्राजापत्य-काण्डम्पौरोडाशिकम्
मौ॒ग॒ररु॑स्ते॒ दिव॒म्मा स्का॒न्॒ वस॑वस्त्वा॒ परि॑गृह्णन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॒ परि॑गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽऽदि॒त्यास्त्वा॒ परि॑गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा दे॒वस्य॑ सवि॒तुस्स॒वे कर्म॑ कृण्वन्ति वे॒धस॑ ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शिन्नुदा॒दाय॑ पृथि॒वीञ्जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒स्तान्धीरा॑सो अनु॒दृश्य॑ यजन्ते ।। [15]1.1.1.09.031.1.9.3प्राजापत्य-काण्डम्पौरोडाशिकम्
प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ऽग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि गो॒ष्ठम्मा निर्मृ॑क्षव्वाँ॒जिन॑न्त्वा सपत्नसा॒ह सम्मार्ज्मि॒ वाच॑म्प्रा॒णञ्चक्षुः॒ श्रोत्र॑म्प्र॒जाय्योँनि॒म्मा निर्मृ॑क्षव्वाँ॒जिनीन्त्वा सपत्नसा॒ही सम्मार्ज्म्या॒शासा॑ना सौमन॒सम्प्र॒जा सौभाग्यन्त॒नूम् । अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कम् । सु॒प्र॒जस॑स्त्वा व॒य सु॒पत्नी॒रुप॑ [16]1.1.1.10.011.1.10.1प्राजापत्य-काण्डम्पौरोडाशिकम्
से॒दि॒म॒ । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदाभ्यम् । इ॒मव्विँष्या॑मि॒ वरु॑णस्य॒ पाश॒य्यँमब॑ध्नीत सवि॒ता सु॒शेवः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ कृणोमि । समायु॑षा॒ सम्प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ । सम्पत्नी॒ पत्या॒ऽहङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑ । म॒ही॒नाम्पयो॒ऽस्योष॑धीना॒॒ रस॒स्तस्य॒ तेऽक्षी॑यमाणस्य॒ निः [17]1.1.1.10.021.1.10.2प्राजापत्य-काण्डम्पौरोडाशिकम्
व॒पा॒मि॒ म॒ही॒नाम्पयो॒ऽस्योष॑धीना॒॒ रसोऽद॑ब्धेन त्वा॒ चक्षु॒षाऽवेक्षे सुप्रजा॒स्त्वाय॒ तेजो॑ऽसि॒ तेजोऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑द॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॑श्शु॒क्रन्त्वा॑ शु॒क्राया॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ।। [18]1.1.1.10.031.1.10.3प्राजापत्य-काण्डम्पौरोडाशिकम्
कृष्णोऽस्याखरे॒ष्ठोऽग्नये त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒हिषे त्वा॒ स्वाहा॑ ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर््हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छत॒ विष्णो॒स्स्तूपो॒ऽस्यूर्णाम्रदसन्त्वा स्तृणामि स्वास॒स्थन्दे॒वेभ्यो॑ गन्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्य बा॒हुर॑सि [19]1.1.1.11.011.1.11.1प्राजापत्य-काण्डम्पौरोडाशिकम्
दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तो मि॒त्रावरु॑णौ त्वोत्तर॒त परि॑धत्तान्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तस्सूर्य॑स्त्वा पु॒रस्तात्पातु॒ कस्याश्चिद॒भिश॑स्त्या वी॒तिहोत्रन्त्वा कवे द्यु॒मन्त॒॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मध्व॒रे वि॒शो य॒न्त्रे स्थो॒ वसू॑ना रु॒द्राणा॑मादि॒त्याना॒॒ सद॑सि सीद जु॒हूरु॑प॒भृद्ध्रु॒वाऽसि॑ घृ॒ताची॒ नाम्ना प्रि॒येण॒ नाम्ना प्रि॒ये सद॑सि सीदै॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पा॒हि य॒ज्ञम्पा॒हि य॒ज्ञप॑तिम्पा॒हि माय्यँ॑ज्ञ॒नियम् ।। [20]1.1.1.11.021.1.11.2प्राजापत्य-काण्डम्पौरोडाशिकम्
भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒दन्नमः॑ । जुह्वेह्य॒ग्निस्त्वा ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिष॒व्विँ जि॑हाथा॒म्मा मा॒ सन्ताप्तल्लोँ॒कम्मे॑ लोककृतौ कृणुत॒व्विँष्णो॒स्स्थान॑मसी॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णि समा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रिन्द्रा॑वा॒न्थ्स्वाहा॑ बृ॒हद्भा पा॒हि माग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ।। [21]1.1.1.12.011.1.12.1प्राजापत्य-काण्डम्पौरोडाशिकम्
वाज॑स्य मा प्रस॒वेनोद्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रा अकः । उ॒द्ग्रा॒भञ्च॑ निग्रा॒भञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् । वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा॒क्त रिहा॑णा वि॒यन्तु॒ वयः॑ । प्र॒जाय्योँनि॒म्मा निर्मृ॑क्ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुता॒म्पृष॑तयस्स्थ॒ दिवम् [22]1.1.1.13.011.1.13.1प्राजापत्य-काण्डम्पौरोडाशिकम्
ग॒च्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य । आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पाहि चक्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ध्रु॒वाऽसि॒ यम्प॑रि॒धिम्प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑णः । तन्त॑ ए॒तमनु॒ जोष॑म्भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त सस्रा॒वभा॑गास्स्थे॒षा बृ॒हन्त॑ प्रस्तरे॒ष्ठा ब॑र््हि॒षद॑श्च [23]1.1.1.13.021.1.13.2प्राजापत्य-काण्डम्पौरोडाशिकम्
दे॒वा इ॒माव्वाँच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन्ब॒र्॒हिषि॑ मादयध्वम॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्तन्धु॒रि धु॒र्यौ॑ पात॒मग्ने॑ऽदब्धायोऽशीततनो पा॒हि मा॒ऽद्य दि॒व पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑षन्न पि॒तुङ्कृ॑णु सु॒षदा॒ योनि॒॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुव्विँ॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ।। [24]1.1.1.13.031.1.13.3प्राजापत्य-काण्डम्पौरोडाशिकम्
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सस्स॒ह मा॑द॒यध्यै । उ॒भा दा॒तारा॑वि॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् । अश्र॑व॒॒ हि भू॑रि॒दाव॑त्तरा वा॒व्विँ जा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्राग्नी॒ स्तोम॑ञ्जनयामि॒ नव्यम् । इन्द्राग्नी नव॒तिम्पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा । शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्येन्द्राग्नी वृत्रहणा जु॒षेथाम् ।। [25]1.1.1.14.014.17.1.1वैश्वदेव-काण्डम्याज्याः
उ॒भा हि वा॑ सु॒हवा॒ जोह॑वीमि॒ ता वाज॑ स॒द्य उ॑श॒ते धेष्ठा । व॒यमु॑ त्वा पथस्पते॒ रथ॒न्न वाज॑सातये । धि॒ये पू॑षन्नयुज्महि । प॒थस्प॑थः॒ परि॑पतिव्वँच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धिय॑न्धिय सीषधाति॒ प्र पू॒षा । क्षेत्र॑स्य॒ पति॑ना व॒य हि॒तेने॑व जयामसि । गामश्व॑म्पोषयि॒त्न्वा स नः॑ [26]1.1.1.14.024.17.1.2वैश्वदेव-काण्डम्याज्याः
मृ॒डा॒ती॒दृशे । क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिन्धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुत॑ङ्घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒ पत॑यो मृडयन्तु । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठान्ते॒ नम॑उक्तिव्विँधेम । आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् । अ॒ग्निर्वि॒द्वान्थ्स य॑जात् [27]1.1.1.14.034.17.1.3वैश्वदेव-काण्डम्याज्याः
सेदु॒ होता॒ सो अ॑ध्व॒रान्थ्स ऋ॒तून्क॑ल्पयाति । यद्वाहि॑ष्ठ॒न्तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते । अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान्थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शँय्योः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वय्यँ॒ज्ञेष्वीड्यः॑ । यद्वो॑ व॒यम्प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषान्देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान् येभि॑र्दे॒वा ऋ॒तुभिः॑ क॒ल्पया॑ति ।। [28]1.1.1.14.044.17.1.4वैश्वदेव-काण्डम्याज्याः

Viewing Instructions

The Chandas font is needed to view Vedic content: Download Chandas Font
Click on the download link above, open the file (Chandas.ttf) and install it on your computer
You can also save Chandas.ttf to your computer and copy it to the system fonts directory (such as C:\Windows\Fonts on Windows XP) to install